|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.5. अध्यायः 005
Mahabharata - Karna Parva - Chapter Topics
धृतराष्ट्रेण कर्णगुणानुवर्णनपूर्वकं शोचनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
जनमेजय उवाच। 8-5-0x(4841)(55117)
श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः।
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्॥ 8-5-1(55118)
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्।
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः॥ 8-5-2(55119)
वैशम्पायन उवाच। 8-5-3x(4842)
श्रुत्वा कर्णस्य निधनमश्रद्वेयमिवाद्भुतम्।
भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा॥ 8-5-3(55120)
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः।
पराजयमिवेन्द्रस्य द्विषद्ध्यो भीमकर्मणः॥ 8-5-4(55121)
दिवः प्रपतनं भानोरुरव्यामिव महाद्युतेः।
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः॥ 8-5-5(55122)
महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम्।
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः॥ 8-5-6(55123)
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः।
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम्॥ 8-5-7(55124)
प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च।
शोकाग्निना दह्यमानो धम्यमान इवाशये॥ 8-5-8(55125)
विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः।
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः॥ 8-5-9(55126)
धृतराष्ट्र उवाच। 8-5-10x(4843)
सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः।
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः॥ 8-5-10(55127)
वृषभो वृषभस्येव यो युद्धे न निवर्तते।
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा॥ 8-5-11(55128)
यस्य ज्यातलशब्देन शरवृष्टिरवेण च।
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे॥ 8-5-12(55129)
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम्।
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः॥ 8-5-13(55130)
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे।
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः॥ 8-5-14(55131)
यो नामन्यत वै नित्यमच्युतं च धनञ्जयम्।
न वृष्मीन्सहितानन्यान्स्वबाहुबलदर्पितः॥ 8-5-15(55132)
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ।
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे॥ 8-5-16(55133)
इति यः सततं मन्दमवोचल्लोभमोहितम्।
दुर्योधनमवाचीनं राज्यकामुकमातुरम्॥ 8-5-17(55134)
योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह।
गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान्। 8-5-18(55135)
पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान्
सूह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान्॥ 8-5-19(55136)
वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि।
`शबरान्हारहूणांश्च प्रघूणान्सरलानपि॥ 8-5-20(55137)
म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा'।
जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः॥ 8-5-21(55138)
करमाहारयामास जित्वा सर्वानरींस्तथा।
दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः।
दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः॥ 8-5-22(55139)
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित्।
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः॥ 8-5-23(55140)
वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि।
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम॥ 8-5-24(55141)
उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः।
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः॥ 8-5-25(55142)
योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः।
दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत्॥ 8-5-26(55143)
यं लब्ध्वा मागधो राजा सांत्वमानोऽथ सौहृदैः।
अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान्॥ 8-5-27(55144)
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना।
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे॥ 8-5-28(55145)
तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम्।
शोकार्णवे निमग्नोऽहमप्लुवः सागरे यथा॥ 8-5-29(55146)
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय।
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम्॥ 8-5-30(55147)
ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराभवम्।
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम्॥ 8-5-31(55148)
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे।
`महाप्रस्थानगमनं जलं प्रायोपवेशनम्'।
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय॥ ॥ 8-5-32(55149)
इति श्रीमन्महाभारते कर्णपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-5-1 पुत्रांश्चैव निपातितान् इति झ.पाठः॥ 8-5-4 भार्गवस्य रामस्य शुक्रस्य वा॥ 8-5-7 कर्णस्य वधं सञ्चिन्त्य मनस्यालोच्य इदं कृत्स्नं जगत्स्वसैन्यं वा नास्तीति सञ्चिन्त्य निश्चित्य विललापेति तृतीयेन सम्बन्धः॥ 8-5-17 अवाचीनं चिन्तयाऽधोमुखम्॥ 8-5-24 जलवर्षित्वाद्देवेषु महेन्द्रो वृषः। धनवर्षित्वान्मनुष्येषु कर्णोवृषः। तृतीयमेवमभितो वृष्टिकर्तारं वृषम्॥ 8-5-29 नौकाहीनः॥ 8-5-5 पञ्चमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|